मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३५, ऋक् २

संहिता

कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् ।
त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥

पदपाठः

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् ।
त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॒ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

फलस्यविलंबमसहमानऋषिः अनयापीन्द्रंपृच्छति हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् नृभिरस्मदीयैःपुरुषैः नॄन् शत्रुपुरुषान् तथा वीरैरस्मदीयैःपुत्रैः वीरान् शत्रुपुत्रांश्च यन्नीलयासेत्वं संश्लेषयेः संयोजयेः नीलयतिःसंश्लेषणकर्मा ईदृशं युद्धेयत् संश्लेषणंतत् कदाभवे- दितिवितर्कः अपिचास्मदर्थं त्वं आजीन् संग्रामान् कदा जय जयेः कदाच गोष्वभिग्न्तृषुशत्रुषु विद्यमानाः त्रिधातु त्रिधातूनां क्षीरदधि- घृतानांत्रयाणां धारयित्रीर्गाः अधिजयासि अधिकंजयेः हेइन्द्र त्वं स्वर्वत् व्याप्तिमत् द्यम्नं धनं अस्मे अस्मासु कदा धेहि धारयेः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः