मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३५, ऋक् ३

संहिता

कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ ।
क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥

पदपाठः

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्वऽप्सु॑ । ब्रह्म॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ ।
क॒दा । धियः॑ । न । नि॒ऽयुतः॑ । यु॒वा॒से॒ । क॒दा । गोऽम॑घा । हव॑नानि । ग॒च्छाः॒ ॥

सायणभाष्यम्

अनयापिकतिचित्प्रश्नाः क्रियन्ते हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् हेशविष्ठ बलवत्तमेन्द्र त्वं जरित्रे स्तोत्रे विश्व्प्सु बहुविधरूपं ब्रह्मान्नं कृणवः करोषीतियत् तत्कदाभवेदितिवितर्कः कदाच धियः कर्माणि नेतिसमुच्चये नियुतः स्तुतीश्च युवासे आत्मनियोजयेः कदाच त्वं गोमघाः गोमघानि गवांदातॄणि मंहतेर्दानार्थस्यरूपमुत्तरपदं हवनानि स्तोत्राणि गच्छाः अभिगच्छेः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः