मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३५, ऋक् ४

संहिता

स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्ष॑ः ।
पी॒पि॒हीषः॑ सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥

पदपाठः

सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ ।
पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥

सायणभाष्यम्

हेइन्द्र सत्वं जरित्रे स्तोत्रे गोमघाः गवांदात्रीः अश्वश्चन्द्राः अश्वैराह्लादयन्तीः वाजश्रवसः वाजैर्बलैः प्रसिद्धाः एवंभूताः पृक्षोन्नानि भरद्वाजपुत्रेष्वस्मसु अधिधेहि धारय तथा इषस्तान्यन्नानि सुदुघां शोभनदोग्ध्रीं धेनुं गांच हेइन्द्र पीपिहि प्यायय अपिच ताइषोगौश्च सुरुचः शोभनदीप्तयोयथाभवन्तितथा त्वं रुरुच्याः दीपयेः शोभनदीप्तियुक्ताश्चताःसन्त्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः