मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३६, ऋक् १

संहिता

स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः ।
स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥

पदपाठः

स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः ।
स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । अ॒सु॒र्य॑म् ॥

सायणभाष्यम्

हेइन्द्र तव त्वदीयामदासःसोमपनजनिताःमदाःसत्रा सत्यनामैतत् सत्यं विश्वजन्याः सर्वजनहिताभवन्ति यद्वा सत्रेतिमहन्नाम महा- न्तस्तवमदाइतियोज्यं अधापिच पार्थिवासः पृथिव्युपलक्षितेलोकत्रयेभवाः त्वदीयायेरायोधनसमूहाःसन्ति सत्रा तेसत्यं विश्वजनहिता- भवन्तीत्यन्वयः किंच त्वं वाजानामन्नानां सत्रासत्यं विभक्ता दाता अभवोभवसि यद्वा सत्रा महतांवाजानामितियोज्यं यत् यस्मात् त्वं देवेषुमध्येअसुर्यंबलं धारयथाः अतःकारणात् त्वमेवंकरोषीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः