तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिन्द्र॑म् ।
स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ॥
तम् । स॒ध्रीचीः॑ । ऊ॒तयः॑ । वृष्ण्या॑नि । पौंस्या॑नि । नि॒ऽयुतः॑ । सश्चुः॑ । इन्द्र॑म् ।
स॒मु॒द्रम् । न । सिन्ध॑वः । उ॒क्थऽशु॑ष्माः । उ॒रु॒ऽव्यच॑सम् । गिरः॑ । आ । वि॒श॒न्ति॒ ॥
तंइंद्रं ऊतयोमरुतः सध्रीचीः सहांचंत्यः संगताभूत्वा सश्चुः सचन्ते यद्वा ऊतयस्तर्पकाण्यन्नानिसहवर्तमानानिभूत्वा सेवन्ते तथा वृष्ण्यान्हि वीर्याणिपौंस्यानि बलानिच नियुतोरथेयुज्यमानावडवाश्च तमिन्द्रं सेवन्ते अपिच उक्थशुष्माः उक्थंशस्त्रं तदेवशुष्मबलं यासां तादृशागिरः स्तुतयश्च उरुव्यचसं विस्तीर्णव्याप्तिकं तमिन्द्रं आविशन्ति प्रविशन्ति तत्रदृष्टान्तः—समुद्रंनसिन्धवः यथास्यन्दन- शीलानद्यः समुद्रमाविशंति आविश्यच विभक्ततयानदृश्यन्ते एवंसर्वाअपिस्तुतयः इन्द्रेणैकीभवन्तीत्यर्थः ॥ ३ ॥