मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३६, ऋक् ४

संहिता

स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्व॑ः ।
पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

पदपाठः

सः । रा॒यः । खाम् । उप॑ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒ऽच॒न्द्रस्य॑ । त्वम् । इ॒न्द्र॒ । वस्वः॑ ।
पतिः॑ । ब॒भू॒थ॒ । अस॑मः । जना॑नाम् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥

सायणभाष्यम्

हेइन्द्र गृणानः स्तूयमानः सत्वं रायोधनस्य खां नदीनामैतत् अत्रतत्संबद्धाधारालक्ष्यते धारां उपसृज विमुंच अस्माभिःसंयोजयेत्यर्थः कीदृशस्यधनस्य पुरुश्चन्द्रस्य बहूनामाह्लादकस्य वस्वः निवासकस्य अपिच असमोनुपमः सर्वोत्क्रुष्टस्त्वं जनानां सर्वेषांप्राणिनां पतिर- धिपतिर्वभूथ बभूविथ तथा विश्वस्य सर्वस्य भुवनस्यभूतजातस्य एकःअसाधारणः राजा ईश्वरश्च बभूविथ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः