मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३६, ऋक् ५

संहिता

स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।
असो॒ यथा॑ न॒ः शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥

पदपाठः

सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः ।
असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥

सायणभाष्यम्

हेइन्द्र श्रुत्या श्रुत्यानि श्रोतव्यानि स्तोत्राणि तु क्षिप्रं श्रुधि श्रृणु यस्त्वं दुवोयुः अस्मदीयंपरिचरणमात्मनइच्छन् अर्यः अरेःसंबन्धीनि रायोधनानि भूम बहुतराणि द्यौर्न सूर्यइवाभिभवसि सत्वं श्रुधीत्यन्वयः अपिच शवसा आत्मीयेनबलेन स्तोतव्येन युक्तश्चकानः स्तूयमा- नः युगेयुगे कालेकाले वयसा हविर्लक्षणेनान्नेन चेकितानः प्रज्ञायमानस्त्वं यथा येनप्रकारेणनोस्माकमसाधारणोसि तथा असः स्याः ॥ ५ ॥

अर्वाग्रथमितिपंचर्चंचतुर्दशंसूक्तं भरद्वाजस्यार्षं त्रिष्टुभमैन्द्रं अर्वाग्रथमित्यनुक्रान्तं महाव्रतेनिष्केवल्येउक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः