मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३७, ऋक् १

संहिता

अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु ।
की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥

पदपाठः

अ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ ।
की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥

सायणभाष्यम्

हेउग्र उद्गूर्णबलेन्द्र युक्तासोरथेनयुक्ताः हरयोश्वाः तेत्वदीयं विश्ववारं विश्वैर्वरणीयंरथं अर्वाक् अस्मदभिमुखं वहन्तु आनयन्तु हिय- स्मात् स्वर्वान् स्वः सुष्ठु वरणीयंगुणजातं तद्वान् कीरिश्चित् स्तोता भरद्वाजऋषिः त्वा त्वां हवते आह्वयति तस्मात्कारणात् त्वदीयंरथं अभीमुखं वहन्तिइत्यर्थः वयंच अद्येदानीं ते त्वया सधमादः सहमाद्यन्तऋधीमहि समृद्धाभवेम ॥ १ ॥ तृतीयेपर्याच्छावाकस्यप्रोद्रोणइत्येषाशस्त्रयाज्या सूत्रितंच—प्रोद्रोणेहरयः कर्माग्मन्नितियाज्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः