मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३७, ऋक् २

संहिता

प्रो द्रोणे॒ हर॑य॒ः कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन् ।
इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥

पदपाठः

प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् ।
इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य । राजा॑ ॥

सायणभाष्यम्

हरयोहरितवर्णाः सोमाः कर्म अस्मदीयंयज्ञं प्रोअग्मन् प्रकर्षेणगच्छन्ति प्राप्नुवन्ति प्राप्यच पुनानासःद्रोणे द्रोणकलशे ऋज्यन्तःऋजु- गच्छन्तः अभूवन् भवन्ति पूर्व्यः पुरातनः द्युक्षोदीप्तेर्निवासभूतः द्युस्थानोवा मदस्य मदकरस्य सोम्यस्य सोमस्य राजा ईश्वरः एवंभूत- इन्द्रश्च अस्य इमं स्तोमं पपीयात् पिबतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः