मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३७, ऋक् ३

संहिता

आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वा॑ः ।
अ॒भि श्रव॒ ऋज्य॑न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥

पदपाठः

आ॒ऽस॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ ।
अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥

सायणभाष्यम्

आसस्राणासः परितोगच्छन्तः रथ्यासोरथेयुक्ताःअश्वाः ऋज्यन्तः ऋजुगमनाःसन्तः सुचक्रे शोभनचक्रे रथेवस्थितं शवसानं बलमि- वाचरन्तमिन्द्रं श्रवः श्रवणीयमस्मदीयंहविरच्छाभिमुख्येनअभिवहेयुरावहेयुः नूचिदितिनिपातोनिषेधे अत्रवर्तते अमृतं अमरणहेतुभूतं सोमलक्षणं हविः वायोर्हेतोः नु इदानीं नूचित् नैवविदस्येत् क्षयंनप्राप्नुयात् पात्रेगृहीतः सोमोवायुनाशुष्यति ततः पुरैवतत्पानार्थं अश्वा- इन्द्रमभिवहेय् रित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः