मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३७, ऋक् ४

संहिता

वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः ।
यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥

पदपाठः

वरि॑ष्ठः । अ॒स्य॒ । दक्षि॑णाम् । इ॒य॒र्ति॒ । इन्द्रः॑ । म॒घोना॑म् । तु॒वि॒कू॒र्मिऽत॑मः ।
यया॑ । व॒ज्रि॒ऽवः॒ । प॒रि॒ऽयासि॑ । अंहः॑ । म॒घा । च॒ । धृ॒ष्णो॒ इति॑ । दय॑से । वि । सू॒रीन् ॥

सायणभाष्यम्

वरिष्ठउरुतमः तुविकूर्मितमः अतिशयेनबहुविधकर्माइन्द्रः मघोनां मघवतां हविर्लक्षणधनोपेतानांमध्ये अस्ययजमानस्य दक्षिणां यज्ञेदातव्यां इयर्ति प्रेरयति यद्वा मघोनामिति अस्येत्यनेनसमानाधिकरणं वचनव्यत्ययः मघोनोहविष्मतोस्ययजमानस्येत्यर्थः शेषः- प्रत्यक्षकृतः हेवज्रिवोवज्रवन्निन्द्र ययादक्षिणयादत्तया अंहः पापं यज्ञसंबन्धि परियासि विनाशयसि हेषृष्णो धर्षक मघा मघानि धनानि सूरीन् स्तोतृन् पुत्रांश्च ययाच दक्षिणयाविदयसे प्रयच्छसि तादृशीं दक्षिणां प्रेरयसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः