मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३७, ऋक् ५

संहिता

इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः ।
इन्द्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥

पदपाठः

इन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः ।
इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥

सायणभाष्यम्

अयमिन्द्रः स्थविरस्य श्रेष्ठस्य वाजस्यान्नस्य बलस्यवादाताभवतु सचेन्द्रोवृद्धमहाः प्रवृद्धतेजस्कःसन् गीर्भिरस्मदीयाभिः स्तुतिभिः वर्धतांसत्वाशत्रूणांशातयिता सइन्द्रःवृत्रं आवर कंशत्रुंहनिष्ठः इन्तृतमोस्तु भवतु अपिच सूरिःमेरकः सइन्द्रस्तूतुजानस्त्वरमाणःता तानि- धनानि आपृणति अस्मभ्यं प्रयच्छतु ॥ ५ ॥

अपादितइतिपंचर्चेपंचदशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं अपादित्यनुक्रान्तं महाव्रतेनि ष्केवल्ये उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः