मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३८, ऋक् २

संहिता

दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः ।
एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥

पदपाठः

दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥

सायणभाष्यम्

अस्येन्द्रस्य कर्णा दूराच्चित् दूरदेशादपि आवसतः स्तोत्रश्रवणार्थमागच्छतः इन्द्रस्य घोषात् घोषणीयात्स्तोत्राद्धेतोः ब्रुवाणः स्तुवन् स्तोता तन्यति शब्दंकरोति यद्वा सर्वत्रविस्तारयति देवहूतिः देवस्येन्द्रस्यआह्वानरूपाइयंस्तुतिश्च ऋच्यमानास्वयंप्रेर्यमाणासतीएनमि- न्द्रं मद्भ्यक् मदभिमुर्खं आववृत्यात् आवर्तयतु पुनरियमितिपूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०