मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३८, ऋक् ३

संहिता

तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः ।
ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥

पदपाठः

तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।
ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥

सायणभाष्यम्

हेइन्द्र तं तादृशमिन्द्रं वःत्वां व्यत्ययेनबहुवचनं परमया उत्कृष्टतमया धिया स्तुत्या अर्कैरर्चनसाधनैर्हविर्भिः सार्धं अभ्यनूषि अभिष्टौमि कीदृशं पुराजां पूर्वस्मिन्कालेजातं चिरन्तनं अजरं जरारहितं नित्यं अतःकारणात् अस्मिन्निन्द्रे ब्रह्म ब्रह्माणि हविर्लक्षणान्य- न्नानि गिरःस्तुतयश्च संदधिरे संधीयन्ते संश्लिष्यन्ते महान्प्रवृद्धःस्तोमश्च अधिवर्धत् अधिकंवर्धते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०