मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३८, ऋक् ४

संहिता

वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।
वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासा॑ः श॒रदो॒ द्याव॒ इन्द्र॑म् ॥

पदपाठः

वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।
वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥

सायणभाष्यम्

यमिन्द्रं यज्ञोयागः वर्धात् वर्धयति उतापिच तत्साधनभूतः सोमश्च यंइन्द्रं वर्धयति तथाब्रह्म हविर्लक्षणमन्नंचपुरोडाशादिकं यमिन्द्रं वर्धात् वर्धयतिगिरः स्तोत्राणि मन्य मननीयानि उक्था उक्थशस्त्राणिचयं वर्धयन्ति एनमिन्द्रं उषसश्च अक्तोः रात्रेः यामन् यामनि गम- नेसति वर्धयन्ति मासाः शरदः संवत्सराश्च द्यावोदिवसाश्चएनमिन्द्रं वर्धान् वर्धयन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०