मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४०, ऋक् १

संहिता

इन्द्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या ।
उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥

पदपाठः

इन्द्र॑ । पिब॑ । तुभ्य॑म् । सु॒तः । मदा॑य । अव॑ । स्य॒ । हरी॒ इति॑ । वि । मु॒च॒ । सखा॑या ।
उ॒त । प्र । गा॒य॒ । ग॒णे । आ । नि॒ऽसद्य॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । वयः॑ । धाः॒ ॥

सायणभाष्यम्

हेइन्द्र तं सोमं पिब यः सोमस्तुभ्यं मदाय मदार्थं सुतोभिषुतः यतस्त्वयासोमः यातव्यः अतःकारणात् सखाया समानख्यानौ मित्रभू- तौवा हरी अश्वौ अवस्य अवस्थापय तदनन्तरं विमुच रथाद्विमुंच उतापिचगणे अस्मत् स्तोतृसंघे आ आभिमुख्येन निषद्योपविश्य प्रगा- यअस्मा भिःकृतंस्तोत्रमुपश्लोकय अथानन्तरं यज्ञाय यजमानाय गृणते स्तुवते वयोन्नंधाः देहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२