मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४०, ऋक् ३

संहिता

समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः ।
त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥

पदपाठः

सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे॑ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वहि॑ष्ठाः ।
त्वा॒ऽय॒ता । मन॑सा । जो॒ह॒वी॒मि॒ । इन्द्र॑ । आ । या॒हि॒ । सु॒वि॒ताय॑ । म॒हे । नः॒ ॥

सायणभाष्यम्

अग्नौसमिद्धेसम्यगिन्धनैः दीप्ते सोमेसुते अभिषुतेसति हेइन्द्र त्वात्वांवहिष्ठाः वोढृतमाः हरयोश्वाःआवहन्तु इमंयज्ञंप्रत्यानयन्तु अहं- चत्वायता त्वांकामयमानेनमनसाजोहवीमि पुनः पुनराह्वयामि हेइन्द्र त्वंनोस्माकंमहेमहते सुवितायकल्याणाय आयाहिआगच्छ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२