मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४०, ऋक् ४

संहिता

आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् ।
उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥

पदपाठः

आ । या॒हि॒ । शश्व॑त् । उ॒श॒ता । य॒या॒थ॒ । इन्द्र॑ । म॒हा । मन॑सा । सो॒म॒ऽपेय॑म् ।
उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ । अथ॑ । ते॒ । य॒ज्ञः । त॒न्वे॑ । वयः॑ । धा॒त् ॥

सायणभाष्यम्

हेइन्द्र पुराशश्वद्बहुकृत्वोययाथ सोमपानार्थंयज्ञंगतवानसि अतःकारणात् उशताअस्मान्कामयमानेन महामहतामनसासह सोमपेयंसो- मःपीयतेयस्मिन् तादृशमस्मदीयंयज्ञं आयाहिअभिगच्छ आगत्यच ब्रह्माणिस्तोत्राणि इमाइदानींप्रयुज्यमानानि नोस्मदीयानिउपश्रृणवः उमश्रृणु अथानन्तरं यज्ञोयजमानस्तेतवतन्वेशरीरायत्वच्छरीरपोषार्थं वयोन्नंसोमात्मकंधात् ददातु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२