मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४०, ऋक् ५

संहिता

यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ ।
अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्त्स॒जोषा॑ः पाहि गिर्वणो म॒रुद्भि॑ः ॥

पदपाठः

यत् । इ॒न्द्र॒ । दि॒वि । पार्ये॑ । यत् । ऋध॑क् । यत् । वा॒ । स्वे । सद॑ने । यत्र॑ । वा॒ । असि॑ ।
अतः॑ । नः॒ । य॒ज्ञम् । अव॑से । नि॒युत्वा॑न् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ॥

सायणभाष्यम्

हेइन्द्र पार्येपारगेदूरदेशे दिविद्युलोकाख्ये यद्यदित्वंवर्तसे यदिवा ऋधक् एतत् पृथक् शब्देनसमानार्थं पृथगन्यस्मिन्देशेवर्तसे यद्वा स्वेस्वकीयेसदनेगृहे अथवा किमनेनविशेषणेन यत्रयस्मिन्देशेअसिभवसि अतोस्मात् स्थानादागत्यहेगिर्वणः गिरांसंभक्तरिन्द्र नियुत्वान्- नियुतोश्वाःतद्वान् मरुद्भिःसजोषाः सहप्रीयमाणस्त्वं नोस्माकमवसेरक्षणाययज्ञमस्मदीयंयागंपाहिरक्ष यद्वा यज्ञंयजमानसाधनंअस्मदीयं- सोमं अवसेतर्पणायपाहि पिब ॥ ५ ॥

अहेळमानइतिपंचर्चमष्टादशंसूक्तंभरद्वाजस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रान्तंच—अहेळमानइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२