मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४१, ऋक् १

संहिता

अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तासः॑ ।
गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥

पदपाठः

अहे॑ळमानः । उप॑ । या॒हि॒ । य॒ज्ञम् । तुभ्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ ।
गावः॑ । न । व॒ज्रि॒न् । स्वम् । ओकः॑ । अच्छ॑ । इन्द्र॑ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया॑नाम् ॥

सायणभाष्यम्

हेइन्द्र अहेळमानोऽक्रुध्यंस्त्वं यज्ञमस्मदीयंउपयाहि उपगच्छ यतः कारणात् तुभ्यंत्वदर्थं सुतासः अभिषुताः इन्द्रवः सोमाः पवन्तेपूय- न्ते दशापवित्रेणशोध्यन्ते हेवज्रिन् वज्रवन्निन्द्र गावोन गावः स्वकीयंगोष्ठमिव स्वंस्वकीयंओकः स्थानंद्रोणकलशादिलक्षणं अच्छाभिमु- ख्येनप्राप्नुवन्तीतिशेषः अतः कारणात् हेइन्द्र यज्ञियानांयज्ञार्हाणांदेवानांमध्येप्रथमोमुख्यस्त्वं आगहि आगच्छ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३