मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४१, ऋक् २

संहिता

या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥

पदपाठः

या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् ।
तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥

सायणभाष्यम्

हेइन्द्र या ते तवकाकुज्जिह्वा सुकृतासुष्ठुधात्रानिर्मिता याच वरिष्ठाउरुतमाविस्तीर्णतमा ययाचमध्वोमधुनः सोमस्यऊर्मिंरसंशश्वद्ब- हुकृत्वः पिबसि तयाजिह्वयास्मदीयंसोमंपाहिपिब तदर्थमध्वर्युरध्वरस्यनेताऋत्विग्गृहीतसोमःसन् प्रास्थात् हविर्धानदुत्तरवेदिदेशंप्रत्य- गमत् अपिच हेइन्द्र गव्युःशत्रुसंबंधिनीर्गाः आत्मनइच्छन् तेत्वदीयोवज्रः संवर्ततां शत्रुभिःसंगतोभवतु तान्हंत्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३