मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४१, ऋक् ३

संहिता

ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ ।
ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥

पदपाठः

ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । इन्द्रा॑य । वृष्णे॑ । सम् । अ॒का॒रि॒ । सोमः॑ ।
ए॒तम् । पि॒ब॒ । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य॑ । ईशि॑षे । प्र॒ऽदिवि॑ । यः । ते॒ । अन्न॑म् ॥

सायणभाष्यम्

द्रप्सोद्रवणशीलोवृषभः कामानांवर्षिता विश्वरूपः बहुविधरूपोपेतः ईदृग्विधएषसोमः वृष्णेकामानांवर्षित्रेइंद्रायइन्द्रस्यपानार्थं स- मकारिअभिषवादिभिःसंस्कृतोभूत् हेहरिवः हरीअश्वौ तद्वन् हेस्थातः सर्वेषामधिष्ठातः उग्रउद्गूर्णबलेन्द्र एतमीदृशंसोमंपिब यस्यसोम- स्यप्रदिवि जातावेकवचनं प्रभूतेषुदिवसेषु प्रगतेष्वहःसुवा ईशिषे त्वमेवेश्वरोभवसि यश्चसोमस्ते तवअन्नंअन्नत्वेनपरिकल्पितः एतंपिबे- त्यन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३