मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४१, ऋक् ४

संहिता

सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य ।
ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥

पदपाठः

सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य ।
ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥

सायणभाष्यम्

हेइन्द्र सुतोभिषुतोयंसोमः असुतात् अकृताभिषवात् सोमादन्यदीयात् वस्यान् वसीयान् वसुमत्तरःप्रशस्यतरः तथा चिकितुषेविदुषे- अभिज्ञायतुभ्यं रणायरमणीयाय तदर्थं श्रेयान् श्रेष्ठश्चभवति त्वामतिशयेनरमयितेत्यर्थः हेतितिर्वः शत्रूणांतरितरिन्द्र यज्ञंयजनसाधनमेतं सोमंउपयाहि उपगच्छ तेनचसोमेनविश्वास्तविषीः सर्वाणिबलानिआपृणस्व आपरय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३