मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४१, ऋक् ५

संहिता

ह्वया॑मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति ।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥

पदपाठः

ह्वया॑मसि । त्वा॒ । आ । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । अर॑म् । ते॒ । सोमः॑ । त॒न्वे॑ । भ॒वा॒ति॒ ।
शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । मा॒दय॑स्व । सु॒तेषु॑ । प्र । अ॒स्मान् । अ॒व॒ । पृत॑नासु । प्र । वि॒क्षु ॥

सायणभाष्यम्

हेइन्द्र त्वात्वांह्वयामसिआह्वयामः अतःकारणात् त्वंअवांङस्मदभिमुखःसन् आयाहिआगच्छ अस्मदीयःसोमश्च तेतन्वेतवशरीराय- अरंपर्याप्तंभवातिभवतु त्वदीयंशरीरंयथाभिलाषं तर्पयत्वित्यर्थः हेशतक्रतो बहुविधकर्मन्निन्द्र त्वंचसुतेष्वभिषुतेष्वस्मदीयेषुसोमेषु माद- यस्व तृप्यस्व मदतृप्तियोगे तदनन्तरं पृतनासुसंग्रामेषु अस्मान्प्राव प्रकर्षेणरक्ष नकेवलंपृतनासु किन्तु विक्षुसर्वासुप्रजासु अस्मान्प्राव प्ररक्ष ॥ ५ ॥

प्रत्यस्माइतिचतुरृचमेकोनविंसंसूक्तं भरद्वाजस्यार्षमैन्द्रं चतुर्थीबृहती शिष्टाअनुष्टुभः तथाचानुक्रान्तं—प्रत्यस्मैचतुष्कमानुष्टुभंबृहत्य- न्तमिति । प्रातः सवनेच्छावाकस्यइदमुन्नीयमानसूक्तं सूत्रितंच—प्रत्यस्माइत्युन्नीयमानायानूच्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३