मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४२, ऋक् १

संहिता

प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।
अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥

पदपाठः

प्रति॑ । अ॒स्मै॒ । पिपी॑षते । विश्वा॑नि । वि॒दुषे॑ । भ॒र॒ ।
अ॒र॒म्ऽग॒माय॑ । जग्म॑ये । अप॑श्चात्ऽदघ्वने । नरे॑ ॥

सायणभाष्यम्

हेअध्वर्यो अस्माइन्द्रायप्रतिभर अभिहर सोमंप्रयच्छेत्यर्थः कीदृशायेन्द्राय पिपीषतेपातुमिच्छते विश्वानिसर्वाणिवेद्यानिविदुषेजानते अरंगमाय पर्याप्तगमनाय जग्मयेयज्ञेषुगमनशीलाय अपश्चाद्दध्वने दघिर्गतिकर्मा अपश्चाद्गमनाय सर्वेषामग्रगामिने नरेनेत्रेयज्ञानां ॥ १ ॥ तृतीयेस्वरसाम्नि निष्केवल्येएमेनमितिस्तोत्रियस्तृचः सूत्रितंच—एमेनंप्रत्येतनेत्याद्योवासर्वेषामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४