मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४२, ऋक् २

संहिता

एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् ।
अम॑त्रेभिरृजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥

पदपाठः

आ । ई॒म् । ए॒न॒म् । प्र॒ति॒ऽएत॑न । सोमे॑भिः । सो॒म॒ऽपात॑नम् ।
अम॑त्रेभिः । ऋ॒जी॒षिण॑म् । इन्द्र॑म् । सु॒तेभिः॑ । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हेअध्वर्यवः सोमेभिःसोमैःकरणभूतैः सोमपातमंअतिशयेनसोमस्यपातारमेनमिन्द्रं आअभिमुखंप्रत्येतनप्रतिगच्छत ईमितिनिपातेन- र्थकः कीदृशमिन्द्रं अमत्रेभिःअमत्रैः सोमपात्रैः ग्रहचमसादिभिः ऋजीषिणं ऋजीषंशत्रूणामुपार्जकंबलं तद्वन्तं यद्वा ऋजीषिणमित्युत्तरत्र- संबन्धनीयं सुतेभिरभिषुतैरिन्दुभिः सोमैःऋजीषिणं गतसारःसोमऋजीषः तद्वन्तं अथवा अमत्रेभिः अमत्रैरमात्रैरपरिमितैः अभिषुतैः सोमैः ऋजीषिणं ऋजेर्गत्यर्थात् भावसाधनऋजीषशब्दः ततोमत्वर्थीयइनिः संगतमित्यर्थः एवंविधमिन्द्रंप्रतिगच्छतेत्यन्वयः अन्यआह- अमत्रेभिः ग्रहचमसादिगतैः अभिषुतैः सोमैः ऋजीषिणं बलवन्तमेनंइन्द्रंप्रतिगच्छतेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४