मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४२, ऋक् ३

संहिता

यदी॑ सु॒तेभि॒रिन्दु॑भि॒ः सोमे॑भिः प्रति॒भूष॑थ ।
वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥

पदपाठः

यदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ ।
वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥

सायणभाष्यम्

हेअध्वर्यवः सुतेभिरभिषुतैः इंदुभिरुंदनशीलैः दीप्तैर्वासोमेभिःसोमैः यदिप्रतिभूषथ इन्द्रंप्रतियूयंप्रतिगच्छथ भूप्राप्तावित्यस्यैतद्रूपं तदानींमेधिरोमेधावी मेधोयज्ञस्तद्वान् वासइन्द्रः विश्वस्य विश्वंसर्वंभवदीयंकामंवेद वेत्ति जानानि ज्ञात्वाच धृषत् श्त्रूणांधर्षकःसन् तंतमित् तंतंकाममेव एषतेप्रापयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४