त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति॑म् ।
इन्द्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ॥
त्यम् । ऊं॒ इति॑ । वः॒ । अप्र॑ऽहनम् । गृ॒णी॒षे । शव॑सः । पति॑म् ।
इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् । वि॒श्वऽच॑र्षणिम् ॥
हेऋत्विग्यजमानाः वोयुष्मदर्थं त्यमुतमेवेन्द्रंगृणीषे स्तौमि यद्वा वोयूयंगृणीषे गृणीत स्तुत वचनव्यत्ययः कीदृशमिन्द्रं अप्रहणं अप्रह- न्तारंभक्तानामनुग्राहकं शवसोबलस्यपतिं पालकं विश्वासाहं विश्वस्यशत्रोरभिभवितारं नरंनेतारं मंहिष्ठंदातृतमं विश्वचर्षणिं सर्व स्यद्रष्टारं ॥ ४ ॥