मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ५

संहिता

यं व॒र्धय॒न्तीद्गिर॒ः पतिं॑ तु॒रस्य॒ राध॑सः ।
तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥

पदपाठः

यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः ।
तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥

सायणभाष्यम्

गिरः स्तुतयः इन्द्रसंबन्धिनंयमित् यमेवशुष्मंबलंवर्धयन्ति कीदृशंपातिं ईश्वरं कस्यतुरस्य हिंसकस्यशत्रोराधसोधनस्यशत्रुधनानाम- पहर्तारमित्यर्थः अस्येन्द्रस्यतमित् तमेवशुष्मंशोषकं बलं देवीदेवनशीलेरोदसी द्यावापृथिव्यौ नुक्षिप्रंसपर्यतः परिचरतः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६