मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ६

संहिता

तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृणी॒षणि॑ ।
विपो॒ न यस्यो॒तयो॒ वि यद्रोह॑न्ति स॒क्षितः॑ ॥

पदपाठः

तत् । वः॒ । उ॒क्थस्य॑ । ब॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तृ॒णी॒षणि॑ ।
विपः॑ । न । यस्य॑ । ऊ॒तयः॑ । वि । यत् । रोह॑न्ति । स॒ऽक्षितः॑ ॥

सायणभाष्यम्

हेस्तोतारः वोयुष्मदीयस्योक्थस्यस्तोत्रस्यतद्बर्हणा बहुत्वंमाहात्म्यं इन्द्राय इन्द्रार्थं उपस्तृणीषणिउपस्तरणीयं उपेत्यविस्तरणीयं इन्द्रोयथास्तोत्रस्यमाहात्म्यंजानीयात् तथाविस्तारयतइत्यर्थः यस्येन्द्रस्य ऊतयोरक्षाःविपिनमेधाविनइवभवन्ति सर्वकार्यकुशलाइत्यर्थः यद्वानेतिपूरकः विपोविप्रस्यमेधाविनोयस्येन्द्रस्येतियोज्यं यत् यस्मिन् चेन्द्रेसक्षितः समाननिवासाः संहताऊतयः विरोहन्ति प्रादुर्भवंति तस्माइन्द्रायेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७