मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ८

संहिता

ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् ।
दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥

पदपाठः

ऋ॒तस्य॑ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां॑सि । दे॒वासः॑ । अ॒क्र॒न् ।
दधा॑नः । नाम॑ । म॒हः । वचः॑ऽभिः । वपुः॑ । दृ॒शये॑ । वे॒न्यः । वि । आ॒व॒रित्या॑वः ॥

सायणभाष्यम्

ऋतस्ययज्ञस्यपथि मार्गे वेधाः विधाता सर्वस्यद्रष्टासोमः अपायि इन्द्रेणपीतोभूत् यद्वा वेधा विधाता इन्द्रः अपायि सोमंपिबतु व्य- त्ययेनकर्तरिचिण् तस्मिन् सोमेइन्द्रस्यमनांसि श्रिये श्रयितुं देवाः स्तोतारऋत्विजः अक्रन् कर्माणिकुर्वन्ति सचेन्द्रः नाम शत्रूणांनामकं महोमहत् आत्मीयंवपुःशरीरंदधानोधारयन् वचोभिः स्तुतिभिः वेन्योवननीयः संभजनीयश्चसन्दृशयेदर्शनार्थं व्यावः विव्रुणोतु प्रकाश- यतु अनुकूलंतेजइतिशेषः यद्वा वेन्यइतिवेनतेःकन्तिकर्मणोरूपं वपुरितिचरूपनाम वेन्यःकमनीयः वपुःभास्वरंरूपं दृशयेदर्शनार्थं व्यवः विवृणोतु वचोभिः स्तूयमानः सन् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७