मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ९

संहिता

द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः ।
वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥

पदपाठः

द्यु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । सेध॑ । जना॑नाम् । पू॒र्वीः । अरा॑तीः ।
वर्षी॑यः । वयः॑ । कृ॒णु॒हि॒ । शची॑भिः । धन॑स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥

सायणभाष्यम्

हेइन्द्र द्युमत्तमं दीप्तिमत्तमं दक्षंबलंअस्मेअस्मासुधेहि धारय जनानांस्तोतॄणामस्माकं पूर्वीर्बह्वीररातीः शत्रुसेनाः सेध निषेध निवा- रय अपिचास्माकं वर्षीयःवृद्धतरं वयोन्नं शचीभिरात्मीयाभिः प्रज्ञाभिः कृणुहिकुरु तथाधनस्यसातौसंभजनेअस्मान् अविड्ढि गमय यद्वा- धनस्य संभजनार्थंअस्मान् रक्ष ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७