मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १०

संहिता

इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः ।
नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ॥

पदपाठः

इन्द्र॑ । तुभ्य॑म् । इत् । म॒घ॒ऽव॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ।
नकिः॑ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒ऽत्रा । किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नम् । त्वा॒ । आ॒हुः॒ ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र दात्रेकामानांदात्रे तुभ्यमित् तुभ्यमेव वयंशोषभूताअभूम यद्वा त्वदर्थमेवदात्रे हविषांदानेवर्तमानाः अभूम हेह- रिवः हरिवन्निन्द्र अतःकारणात् माविवेनः माविगतकामोभूः अस्मान् सर्वदाकामयस्व वेनतिःकान्तिकर्मा मर्त्यत्रा मर्त्येषुमनुष्येषुमध्ये आपिर्बन्धुः त्वत्तोन्यःकश्छिदपिनकिर्ददृशे नैवदृश्यते किमनेनविशेषकथेन अंग हेइन्द्र त्वा त्वां रध्रचादेन रध्रस्यराधकस्यसमृद्धस्यधन- स्यचोदनं चोदयितारं आहुः कथयन्ति पुराजाः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७