मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ११

संहिता

मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम ।
पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥

पदपाठः

मा । जस्व॑ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः॑ । स॒ख्ये । रि॒षा॒म॒ ।
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒ऽसिधः॑ । जने॑षु । ज॒हि । असु॑स्वीन् । प्र । वृ॒ह॒ । अपृ॑णतः ॥

सायणभाष्यम्

हेवृषभ कामानांवर्षितरिन्द्र जस्वने जसिरुपक्षयकर्मा उपक्षयित्रे राक्षसादये नोस्मान् माररीथाः मादाः रेवतोधनवतस्तेतवसख्येस- खित्वेवर्तमानावयंमारिषाम हिंसितामाभूम हेइन्द्र तेत्वदीयाःपूर्वीःबह्वीः निःषिधःनिःषेधाः निवारणानिजनेषुशत्रुनिहिताःसन्ति यद्वा निःषिधोनिषेधार्थारज्जवः ताःशत्रुजनेषुतवबत्द्भ्योविद्यन्ते अतः कारणात् असुस्वीन् अनभिषोतॄन् अयजमानान् जहि मारय अपृणतः हवींष्यप्रयच्छतश्चप्रवृह उन्मूलय पृणदानेइतिधातुः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८