मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १२

संहिता

उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ ।
त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥

पदपाठः

उत् । अ॒भ्राणि॑ऽइव । स्त॒नय॑न् । इ॒य॒र्ति॒ । इन्द्रः॑ । राधां॑सि । अश्व्या॑नि । गव्या॑ ।
त्वम् । अ॒सि॒ । प्र॒ऽदिवः॑ । का॒रुऽधा॑याः । मा । त्वा॒ । अ॒दा॒मानः॑ । आ । द॒भ॒न् । म॒घोनः॑ ॥

सायणभाष्यम्

अभ्राणीवस्तनयन् गर्जयन् पर्जन्यः यथामेघान् उद्गमयति एवमिन्द्रःअश्व्यानि अश्व्संबन्धीनि गव्यागव्यानिगोसंबन्धीनि एतत्समूह- द्वयरूपाणि राधांसिधनानिउदियर्ति उदीरयति उद्गमयति स्तोतृभ्योदातुं उत्तरार्धःप्रत्यक्षकृतः हेइन्द्र प्रदिवःपुराणस्त्वं कारुधायाः कारू- णांस्तोतॄणांधारयितासि भवसि तादृशंत्वात्वांमघोनोधनवन्तःकृपणाः अदामानः हविषामदातारःमाआदभन् माहिंसिषुः यद्वावचनव्य- त्ययः मघवानंधनवन्तंत्वामितिसंबंधः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८