मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १५

संहिता

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः ।
गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥

पदपाठः

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः ।
गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥

सायणभाष्यम्

अयमिन्द्रः सुतमभिषुतंसोमंपातास्तु साधुपाताभवतु साधुकारिणितृन् अतएवनलोकाव्ययेतिषष्ठीषतिषेधादृवितीया एवंहन्तेत्यादा- वपिद्रष्टव्यं तेनचसोमेनमन्दसानः माद्यन् व्रज्रेणायुधेनवृत्रमावरकंशत्रुंहन्तास्तु भवतु एतदुभयार्थंपरावतश्चित् दूरदेशादपियज्ञमच्छअस्म- दीयंयज्ञमभिगन्ताभवतु दूरदेशस्थोपिशीघ्रमस्मद्यज्ञेसोमपानायागच्छत्वित्यर्थः कीदृशइन्द्रः वसुः सर्वेषांनिवासयिता धीनांध्यातॄणां- स्तोतॄणांकर्मणांवाअवितारक्षिता कारुधायाःकारूणांकर्तॄणांयजमानानां धारयिता ॥ १५ ॥ तृतीयेरात्रिपर्यायेप्रशास्तुरिदंत्यदितिशस्त्रयाज्या सूत्रितंच—इदंत्यत्पात्रमिन्द्रपानमितियाज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८