मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १६

संहिता

इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि ।
मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥

पदपाठः

इ॒दम् । त्यत् । पात्र॑म् । इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यम् । अ॒मृत॑म् । अ॒पा॒यि॒ ।
मत्स॑त् । यथा॑ । सौ॒म॒न॒साय॑ । दे॒वम् । वि । अ॒स्मत् । द्वेषः॑ । यु॒यव॑त् । वि । अंहः॑ ॥

सायणभाष्यम्

पात्रंपातव्यंइन्द्रपानं इन्द्रस्यपानार्हं इन्द्रस्यप्रियंअनुकूलं त्यत् तदिदंसोमात्मकममृतंअपायि इन्द्रःपिबतु व्यत्ययेनकर्तरिचिण् यद्वा एतदमृतंअपायि इन्देणपीयतां यथायेनप्रकारेणपी तः सोमः सौमनसायसुमनस्त्वायदेवमिन्द्रं मत्सत् मादयेत् तथापीयतामित्यर्थः सपी- तसोमइन्द्रः द्वेषोद्वेष्टृन् अस्मत्तःवियुयवत् वियोजयतु अंहःपापं चअस्मत्तोवियोजयतु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९