मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १७

संहिता

ए॒ना म॑न्दा॒नो ज॒हि शू॑र॒ शत्रू॑ञ्जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् ।
अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ॥

पदपाठः

ए॒ना । म॒न्दा॒नः । ज॒हि । शू॒र॒ । शत्रू॑न् । जा॒मिम् । अजा॑मिम् । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् ।
अ॒भि॒ऽसे॒नान् । अ॒भि । आ॒ऽदेदि॑शानान् । परा॑चः । इ॒न्द्र॒ । प्र । मृ॒ण॒ । ज॒हि । च॒ ॥

सायणभाष्यम्

हेमघवन् धनवन् शूर शौर्यवन्निन्द्र एनाएनेनप्रकृतेनानेनसोमेनमन्दानोमन्दमानोमाद्यन् जामिंज्ञातिंअजामिंतद्विलक्षणं एवमुभय- विधानमित्रान् अस्मत्प्रतिकूलाचरणपरान् शत्रून् जहि हिंसितान् कुरु किंच अभिषेणान् प्रत्यभिगताः सेनायेषांतादृशान् अस्मदभिमुखं- आदेदिशानान् आयुधानिपुनःपुनःआदिशतोविसृजतःशत्रूंश्च हेइन्द्र पराचः प्रमृणतेयथापराङ्मुखाभवन्ति तथाबाधस्व तदनन्तरंतान्- जहिच ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९