मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १८

संहिता

आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ ।
अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥

पदपाठः

आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः ।
अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र नोस्मदीयासु आसुपृत्सुपृतनासुसंग्रामेषु अस्मभ्यंमहिमहत् सुगं सुखेनप्राप्यं वरिवोधनं कःकुरु स्मेतिपूरणः अपिच हेइन्द्र अपांआप्तव्यानांधनानांउदकानांवा तोकस्यपुत्रस्यतनयस्यपौत्रस्यच जेषे जयार्थंसूरीन् स्तोतॄन् नोस्मान् अर्धअर्धानसमृद्धा- न् कृणुहि कुरु यद्वा अर्धकारिणः शत्रूणांखंडयितृन् कुरु स्मेतिपूरकः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९