मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १९

संहिता

आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्या॑ः ।
अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहन्तु ॥

पदपाठः

आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जा॒नाः । वृष॑ऽरथासः । वृष॑ऽरश्मयः । अत्याः॑ ।
अ॒स्म॒त्राञ्चः॑ । वृष॑णः । व॒ज्र॒ऽवाहः॑ । वृष्णे॑ । मदा॑य । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ ॥

सायणभाष्यम्

हेइन्द्र त्वात्वांहरयोश्वाः वृष्णेवर्षित्रेमदायमदकरायसोमायईदृशंसोमंपाययितुंआवहन्तु कीदृशाअश्वाः वृषणःकामानांवर्षितारः यु- जानाःस्वयमेवरथेयुज्यमानाः वृषरथासः वृषाकामाभिवर्षकोरथोयेषांतेतथोक्ताः वृषरश्मयः वर्षितारोरश्मयःप्रग्रहायेषांतादृशाः अत्याः सततगामिनः अस्मत्रांचःअस्मान् प्रत्यंचन्तोगच्छन्तः वृषणोनित्यतरुणाः वज्रवाहः वज्रादीन्यायुधानिवहन्तः सुयुजः शोभनयोजनाः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९