आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद॑न्तः ।
इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरन्ति वृष॒भाय॒ सोम॑म् ॥
आ । ते॒ । वृ॒ष॒न् । वृष॑णः । द्रोण॑म् । अ॒स्थुः॒ । घृ॒त॒ऽप्रुषः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः ।
इन्द्र॑ । प्र । तुभ्य॑म् । वृष॑ऽभिः । सु॒ताना॑म् । वृष्णे॑ । भ॒र॒न्ति॒ । वृ॒ष॒भाय॑ । सोम॑म् ॥
हेवृषन् कामानांवर्षितरिन्द्र वृषणःसेक्तारोयुवानःत्वदीयाअश्वाःघृतप्रुषोनोर्मयः घृतमुदकंसिंचन्तः सामुद्राःतरंगाइवमदन्तः हृष्यन्तः मत्ताःसन्तःतेत्वदीयंद्रोणंद्रुममयंरथंआस्थुः आस्थितवन्तः अतस्त्वमागच्छेतिभावः कुतइत्यतआह हेइन्द्र वृष्णेयूनेनित्यतरुणायवृषभाय- कामानांवर्षयित्रेतुभ्यं वृषभिःकामाभिवर्षकैः ग्रावभिःसुतानामभिषुतानांसोमानांमध्येत्वद्भागरूपंसोमंयस्मादध्वर्यवः प्रभरन्ति प्रहरन्ति होमार्थंप्रणयन्ति तस्मादागच्छेत्यर्थः ॥ २० ॥