मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् २१

संहिता

वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।
वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥

पदपाठः

वृषा॑ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा॑ । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।
वृष्णे॑ । ते॒ । इन्दुः॑ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः॑ । म॒धु॒ऽपेयः॑ । वरा॑य ॥

सायणभाष्यम्

हेइन्द्र त्वंदिवोद्युलोकस्यवृषासि हविर्भिःसेक्ताभवति पृथिव्याःभूमेश्चवृषभः कामानांवर्षिता सिंधूनांस्यन्दनशीलानांचनदीनांवृषा वर्षेणपूरयितासि तथास्तियानांसंघीभूतानां स्थावरजंगमात्मनांप्राणिनांवृषभः कामानांवर्षिताभवसि यद्वा स्तियाःसंघीभूताआपःता- सांवर्षितासि वृषभकामाभिवर्षकेन्द्र वरायश्रेष्ठायवृष्णो सेन्त्रे तेतुभ्यं त्वदर्थंस्वादुर्मधुरःरसोरसनीयःप्रशस्योरसवान्वारसात्मकोवा मधुपेयोमधुवत्पातव्यः इन्दुःसोमः पीपायाप्यायतेवर्धते अतस्त्वमागत्यतं सोमंपिबेतिभावः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०