मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १

संहिता

य आन॑यत्परा॒वत॒ः सुनी॑ती तु॒र्वशं॒ यदु॑म् ।
इन्द्र॒ः स नो॒ युवा॒ सखा॑ ॥

पदपाठः

यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् ।
इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥

सायणभाष्यम्

यइन्द्रः तुर्वशंयदुंचएतत्संज्ञौराजाओशत्रुभिर्दूरदेशेप्रक्षिप्तौ सुनीतीसुनीत्याशोभनेननयनेनपरावतः तस्माद्दूरदेशात् आनयदानीतगन् युगवरुणःसइन्द्रःनोस्माकंसखाभवतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१