मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ३

संहिता

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
नास्य॑ क्षीयन्त ऊ॒तयः॑ ॥

पदपाठः

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।
न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

अस्येन्द्रस्यप्रणीतयः प्रकृष्टानीतयः प्रापणानि महीःमह्योमहत्योभवन्ति उतापिचप्रशस्तयःप्रकृष्टाःस्तुतयःस्तोतृभिः क्रियमाणाःपूर्वी- र्बत्द्भ्योभवन्ति तथास्येन्द्रस्यऊतयोरक्षाःनक्षीयन्ते नापचीयन्ते किन्तुसर्वदावर्धन्तएव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१