मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ४

संहिता

सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।
स हि न॒ः प्रम॑तिर्म॒ही ॥

पदपाठः

सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ ।
सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥

सायणभाष्यम्

हेसखायः समानख्यानाःस्तोतारः ब्रह्मवाहसे ब्रह्मभिर्मंत्रैर्वहनीयायप्राप्तव्यायेन्द्रायअर्चत शस्त्राणिशंसत प्रगायतच स्तोत्राणि सहिस- खल्विन्द्रः नोस्माकंमहीमहतीप्रमतिः प्रकृष्टाबुद्धिः ईदृश्याबुद्धेः प्रदातेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१