मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ५

संहिता

त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।
उ॒तेदृशे॒ यथा॑ व॒यम् ॥

पदपाठः

त्वम् । एक॑स्य । वृ॒त्र॒ऽह॒न् । अ॒वि॒ता । द्वयोः॑ । अ॒सि॒ ।
उ॒त । ई॒दृशे॑ । यथा॑ । व॒यम् ॥

सायणभाष्यम्

हेवृत्रहन् वृत्राणांशत्रूणांहन्तरिन्द्र त्वंएकस्यस्तोतुःद्वयोश्चस्तोत्रोःअवितारक्षितासि सर्वेषां स्तोतॄणांरक्षकोभवसीत्यर्थः उतअपिच ईदृ- शेजनेप्यविताभवसि यथायादृशावयंत्वयारक्षिताबहुविधपुत्रपौत्राअभूम ईदृशस्यापिजनस्यत्वमेवरक्षकोनान्यइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१