मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ६

संहिता

नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ ।
नृभि॑ः सु॒वीर॑ उच्यसे ॥

पदपाठः

नय॑सि । इत् । ऊं॒ इति॑ । अति॑ । द्विषः॑ । कृ॒णोषि॑ । उ॒क्थ॒ऽशं॒सिनः॑ ।
नृऽभिः॑ । सु॒ऽवीरः॑ । उ॒च्य॒से॒ ॥

सायणभाष्यम्

हेइन्द्र इत् त्वमेवद्विषः द्वेष्टृन् अतिनयसि अस्मान्नयसितारयसि उइतिपूरकः तथाउक्थशंसिनः उक्थानिशस्त्राणिशंसतःस्तोतॄनस्मान्- कृणोषि समृद्धानकरोषि यस्मात्त्वंनृभिः स्तुतीनांनेतृभिः पुरुषैः सुवीरः शोभनैः वीरैः पुत्रपौत्रादिभिः स्तोतृभ्योदातव्यैरुपेतइत्युच्यसे स्तूयसेअतस्तानप्यस्मभ्यंप्रयच्छेतिशेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२