मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ७

संहिता

ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् ।
गां न दो॒हसे॑ हुवे ॥

पदपाठः

ब्र॒ह्माण॑म् । ब्रह्म॑ऽवाहसम् । गीः॒ऽभिः । सखा॑यम् । ऋ॒ग्मिय॑म् ।
गाम् । न । दो॒हसे॑ । हु॒वे॒ ॥

सायणभाष्यम्

ब्रह्माणंपरिवृढं ब्रह्मवाहसं ब्रह्मभिःस्तुतिरूपैर्मंत्रैर्वहनीयं सखायंअस्माकंसखिभूतंऋग्मियं ऋग्माऋचस्तदर्हं स्तुत्यर्हमित्यर्थः एवंभूत- मिन्द्रं दोहसेदोग्धुं गांन गामिव गीर्भिः स्तुतिभिः हुवेआह्वयामि अस्मदीयान्कामान् दोग्धुम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२