मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ८

संहिता

यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।
वी॒रस्य॑ पृतना॒षहः॑ ॥

पदपाठः

यस्य॑ । विश्वा॑नि । हस्त॑योः । ऊ॒चुः । वसू॑नि । नि । द्वि॒ता ।
वी॒रस्य॑ । पृ॒त॒ना॒ऽसहः॑ ॥

सायणभाष्यम्

वीरस्यवीर्यवतः पृतनाषहः पृतनाःशत्रुसेनाः तासामभिभवितुः यस्येन्द्रस्यहस्तयोः बाह्वोः विश्वानिसर्वाणिद्विता दिव्यपार्थिवरूपे- णद्वैधं वर्तमानानिवसूनिविद्यन्तइतिन्यूचुः ऋषयोनितरांवदन्ति तमिन्द्रंहुवइतिपूर्वत्रसंबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२