मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १०

संहिता

तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते ।
अहू॑महि श्रव॒स्यवः॑ ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
अहू॑महि । श्र॒व॒स्यवः॑ ॥

सायणभाष्यम्

हेसत्य अवितथस्वभाव सोमपाः सोमस्यपातः हेवाजानांपते अन्नानांपालयितः एवंभूतहेइन्द्र श्रवस्यवः श्रवोन्नंआत्मनइच्छन्तोवयं तमुत्वा तादृशंत्वामेवअहूमहि आह्वयामः स्तुमइत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२